हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sundarakanda Sarga (Chapter) 53 – सुन्दरकाण्ड त्रिपञ्चाशः सर्गः (५३)


॥ पावकशैत्यम् ॥

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ १ ॥

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २ ॥

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ३ ॥

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।
समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४ ॥

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५ ॥

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः ।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकै पटैः ॥ ६ ॥

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ ७ ॥

तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् ।
लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ॥ ८ ॥

स तु रोषपरीतात्मा बालसूर्यसमाननः ।
लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥ ९ ॥

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ॥ १० ॥

निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ।
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ॥ ११ ॥

छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ।
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ॥ १२ ॥

बध्नन्त्येते दुरात्मनो न तु मे निष्कृतिः कृता ।
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ १३ ॥

किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ।
लङ्का चारयितव्या वै पुनरेव भवेदिति ॥ १४ ॥

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५ ॥

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥ १६ ॥

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १७ ॥

शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ १८ ॥

अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।
हनूमांश्चारयामास राक्षसानां महापुरीम् ॥ १९ ॥

अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ २० ॥

वीथीश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥ २१ ॥

गृहांश्च मेघसङ्काशान्ददर्श पवनात्मजः ।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ २२ ॥

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ २३ ॥

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।
दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥ २४ ॥

राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ॥ २५ ॥

लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥ २६ ॥

वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।
मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ॥ २७ ॥

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ॥ २८ ॥

यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।
यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ॥ २९ ॥

यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ॥ ३० ॥

स विजानाति धर्मात्मा शीतो भव हनूमतः ।
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ॥ ३१ ॥

अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ॥ ३२ ॥

जज्वाल मृगशाबाक्ष्याः शंसन्निव शिवं कपेः ।
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ ३३ ॥

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ ३४ ॥

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः न करोति च मे रुजम् ॥ ३५ ॥

शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।
अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ॥ ३६ ॥

रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।
यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ ३७ ॥

रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति ।
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ ३८ ॥

पितुश्च मम सख्येन न मां दहति पावकः ।
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ ३९ ॥

उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ॥ ४० ॥

विभक्तरक्षःसम्बाधमाससादानिलात्मजः ।
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ॥ ४१ ॥

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।
विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसन्निभः ॥ ४२ ॥

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।
रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः ॥ ४३ ॥

स तान्निहत्वा रणचण्डविक्रमः
समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलाङ्गूलकृतार्चिमाली
प्रकाशतादित्य इवार्चिमाली ॥ ४४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.